STORYMIRROR

smrutirekha das

Others

4  

smrutirekha das

Others

स्मृतिसौरभम्

स्मृतिसौरभम्

1 min
504

आनन्दगङ्गा वहतीव यत्र

सौन्दर्यसिप्रा सरतीव यत्र ।

बन्धुत्वसिन्धुश्चलतीव यत्र

संस्कारशुद्धोऽस्ति स वो विभागः।।

विलोक्य विद्यां प्रति कर्मनिष्ठां

चेष्टां च सर्वां निजनेत्रकान्त्या ।

जातं हि चित्तं सुखमण्डितं मे

विद्या यतो मे जननीव जीर्णा ॥

शुभ्रा सुचित्रा सरला सुभद्रा

विभागदायित्वनगाधिरूढा ।

बन्धुत्वविद्याविषये प्रवीणा

तां भारतीं स्नेहवतीं स्मरामि ॥



Rate this content
Log in